|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.8. अध्यायः 008
Mahabharata - Sauptika Parva - Chapter Topics
शिबिरद्वारे कृपकृतवर्माणौ संस्थाप्यान्तः प्रविष्टेन द्रौणिना धृष्टद्युम्नादिपाञ्चालानां द्रौपदेयादीनां च वधः॥ 1 ॥ भयाद्वहिर्निष्क्रान्तानां कृपकृतवर्मक्ष्यां वधः॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text
धृतराष्ट्र उवाच। 10-8-0x(5275)(64271)
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे।
कच्चित्कृपश्च भोजश्च भयार्तौ न व्यवर्तताम्॥ 10-8-1(64272)
कच्चिन्न वारितौ क्षुद्रौ रक्षिभिर्नोपलक्षितौ।
असह्यमिति मन्वानौ न निवृत्तौ महारथौ॥ 10-8-2(64273)
कच्चिदुन्मथ्य शिबिरं हत्वा सोमकपाण्डवान्।
`कृता प्रतिज्ञा सफला कच्चित्सञ्जय सा निशि'॥ 10-8-3(64274)
दुर्योधनस्य पदवीं कच्चित्परमिकां रणे।
`गत्वातिष्ठदसौ द्रौणिः कृत्वा कर्म सुदुष्करम्॥ 10-8-4(64275)
धृष्टद्युम्नशिखण्डिभ्यां द्रौपद्याश्च सुतैः किल।
सञ्छन्ना मेदिनी सुप्तैर्निहतैः पाण्डुसैनिकैः॥ 10-8-5(64276)
पाञ्चालैर्वा विनिहतैः शयानै रुधिरोक्षितैः।
कच्चिन्महीतलं छन्नं तन्ममाचक्ष्व सञ्जय'॥ 10-8-6(64277)
[पाञ्चालैर्निहतौ वीरौ कच्चित्तु स्वपतां क्षितौ।
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय॥] 10-8-7(64278)
सञ्जय उवाच। 10-8-8x(5276)
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि।
कृपश्च कृतवर्मा च द्रौणिमेवाभ्यवर्तताम्॥ 10-8-8(64279)
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ।
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्॥ 10-8-9(64280)
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने।
किम्पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः॥ 10-8-10(64281)
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्।
यथा न कश्चिदपि वां जीवन्मुच्येत मानवः।
तथा भवद्ध्यां कार्यं स्यादिति मे निश्चिता मतिः॥ 10-8-11(64282)
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्।
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः॥ 10-8-12(64283)
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह।
`द्रौणिः परमसङ्क्रुद्धस्तेजसा प्रज्वलन्निव।
ततः पर्यचरत्सर्वं सम्प्रसुप्तं जनं निशि'॥ 10-8-13(64284)
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्॥ 10-8-14(64285)
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे।
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः॥ 10-8-15(64286)
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत।
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्॥ 10-8-16(64287)
क्षौमावदाते महति स्पर्द्व्यास्तरणसंवृते।
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते॥ 10-8-17(64288)
तं शयानं महात्मानं विस्रब्धमकुतोभयम्।
अपोथयत पादेन शयनस्थं महीपते॥ 10-8-18(64289)
सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः।
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्॥ 10-8-19(64290)
तमुत्पतन्तं शयनादश्वत्थामा महाबलः।
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले॥ 10-8-20(64291)
स बलात्तेन निष्पिष्टः साध्वसेन च भारत।
अभ्याक्रान्तश्च निद्रान्धो नाशकच्चेष्टितुं तदा॥ 10-8-21(64292)
`निष्पिष्य तु ततो भूमौ पाञ्चाल्यं द्रौणिरञ्जसा।
धनुषो ज्यां विमुच्याशु क्रूरबुद्धिरमर्षणः॥ 10-8-22(64293)
तस्य कण्ठेऽथ बद्ध्वा तां त्वरितः क्रोधमूर्च्छितः।'
द्रौणिः क्रूरं मनः कृत्वा पाञ्चाल्यमवधीत्तदा॥ 10-8-23(64294)
तमाक्रम्य पदा राजन्कण्ठे चोरसि पादयोः।
तदन्तं विस्फुरन्तं च पशुमारममारयत्॥ 10-8-24(64295)
`स वार्यमाणस्तरसा बलाद्बलवता बली'।
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्॥ 10-8-25(64296)
आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः।
त्वत्कृते सुकृतां लोकान्गच्छेयं द्विपदांवर॥ 10-8-26(64297)
एवमुक्त्वा तु वचनं विरराम परन्तपः।
सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम्॥ 10-8-27(64298)
तस्याव्यक्तां तु तां वचं संश्रुत्य द्रौणिरब्रवीत्।
आचार्यघातिनां लोका न सन्ति कुलपांसन।
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते॥ 10-8-28(64299)
`नृशंसेनातिवृत्तेन त्वया मे निहतः पिता।
तस्मात्त्वमपि वध्यश्च नृशंसेन नृशंसकृत्॥' 10-8-29(64300)
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्।
मर्मस्वभ्यवधीत्क्रुद्धः पादघातैः सुदारुणैः॥ 10-8-30(64301)
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि।
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः॥ 10-8-31(64302)
ते दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम्।
भूतमित्यध्यवस्यन्तो न स्म प्रव्याहरन्भयात्॥ 10-8-32(64303)
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्।
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्॥ 10-8-33(64304)
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः।
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली॥ 10-8-34(64305)
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे।
सहितैः रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा॥ 10-8-35(64306)
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः।
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत॥ 10-8-36(64307)
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः।
सम्भ्रान्ताः समनह्यन्त किमेतदिति चाब्रुवन्॥ 10-8-37(64308)
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य ताः।
अब्रुन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै॥ 10-8-38(64309)
राक्षसो वा मनुष्यो वा नैनं जानीम कोन्वयम्।
हत्वा पाञ्चालराजानं रथमारुह्य तिष्ठति॥ 10-8-39(64310)
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्।
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत्॥ 10-8-40(64311)
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्।
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके॥ 10-8-41(64312)
तमप्याक्रम्य पादेन कण्ठे चोरसि तेजसा।
तथैव मारयामास विनर्दन्तमरिन्दमम्॥ 10-8-42(64313)
युधामन्युश्च विक्रान्तो मत्वा तं राक्षसं स्म सः।
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्॥ 10-8-43(64314)
`गदाप्रहाराभिहतो नाचलद्द्रौणिराहवे'।
तमभिद्रुत्य वेगेन क्षितौ चैनमपातयत्॥ 10-8-44(64315)
विस्फुरन्तं च पशुवत्तथैवैनममारयत्।
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्॥ 10-8-45(64316)
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्।
पाञ्चालवीरानाक्रम्य क्रुद्धो न्यहनदन्तिके।
स्फुरतो वेपमानांश्च शमितेव पशून्मखे॥ 10-8-46(64317)
ततो निस्त्रिंशमादाय जघानान्यान्पृथक्पृथक्।
भागशो विचरन्मार्गानसियुद्वविशारदः॥ 10-8-47(64318)
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान्।
श्रान्तान्व्यस्तायुधान्सर्वानसिनैव व्यपोथयत्॥ 10-8-48(64319)
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना।
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः॥ 10-8-49(64320)
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च।
अवक्षेपेण चैवासेस्त्रिधा रक्तोक्षितोऽभवत्॥ 10-8-50(64321)
तस्य लोहितरक्तस्य दीप्तखङ्गस्य युध्यतः।
अमानुष इवाकारो बभौ परमभीषणः॥ 10-8-51(64322)
ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः।
वीक्षमाणास्तु ते तत्र द्रौणिं दृष्ट्वा प्रविव्यथुः॥ 10-8-52(64323)
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनम्।
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्॥ 10-8-53(64324)
स घोररूपो व्यचरत्कालवच्छिबिरे तदा।
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान्॥ 10-8-54(64325)
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः।
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते।
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत्॥ 10-8-55(64326)
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः।
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन्॥ 10-8-56(64327)
भारद्वाजः स तान्दृष्ट्वा शरवर्षाणि वर्षतः।
ननाद बलवन्नादं जिघांसुस्तान्महारथान्॥ 10-8-57(64328)
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्।
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे॥ 10-8-58(64329)
सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे।
खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम्।
द्रौपदेयानभिद्रुत्य खङ्गेन व्यधमद्बली॥ 10-8-59(64330)
ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे।
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि॥ 10-8-60(64331)
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्।
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्॥ 10-8-61(64332)
सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ।
पुनरप्याहनत्पार्श्वे स भिन्नहृदयोऽपतत्॥ 10-8-62(64333)
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्।
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्॥ 10-8-63(64334)
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः।
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः॥ 10-8-64(64335)
श्रुतकर्मा तु परिघं घोरं गृह्य दुरासदम्।
अताडयत्समुद्यम्य वेगेन द्रौणिमुत्स्मयन्॥ 10-8-65(64336)
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना।
स हतो न्यपतद्भूमौ विमूर्धा विकृताननः॥ 10-8-66(64337)
तेन शब्देन वीरस्तु श्रुतकीर्तिरबुध्यत।
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्॥ 10-8-67(64338)
`शरैराच्छादितस्तेन द्रोणपुत्रो महारथः।
अदृश्यत महाराज श्वाविच्छललतो यथा॥' 10-8-68(64339)
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः।
सकुण्डलं शिरः कायाद्वाजमानमपाहरत्॥ 10-8-69(64340)
ततो भीष्मनिहन्तारं सह सर्वैः प्रभद्रकैः।
आहनत्सर्वतो वीरं नानाप्रहरणैर्बलात्॥ 10-8-70(64341)
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्पयत्॥ 10-8-71(64342)
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः।
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोसिना॥ 10-8-72(64343)
शिखण़्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः।
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान्॥ 10-8-73(64344)
यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्।
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि।
चकार कदनं घोरं दृष्ट्वा तत्र महाबलः॥ 10-8-74(64345)
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च।
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः॥ 10-8-75(64346)
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्।
रक्ताम्बरधरां घोरां पाशहस्तां कुटुम्बिनीम्॥ 10-8-76(64347)
ददृशुः कालरात्रिं ते स्मयमानामिव स्थिताम्।
नराश्वकुञ्जरान्पाशैर्बद्धा घोरैः प्रतस्थुषीम्॥ 10-8-77(64348)
वहन्तीं विविधान्प्रेतान्पाशबद्वान्विमूर्धजान्।
तथैव च सदा राजन्न्यस्तशस्त्रान्महारथान्॥ 10-8-78(64349)
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष।
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा॥ 10-8-79(64350)
यतः प्रभृति सङ्ग्रामः कुरुपाण्डवसेनयोः।
ततः प्रभृति तां कन्यामपश्यन्द्रौणिमेव च॥ 10-8-80(64351)
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्व्यपातयत्।
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान्॥ 10-8-81(64352)
तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम्।
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः॥ 10-8-82(64353)
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः।
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः॥ 10-8-83(64354)
सोऽच्छिनत्कस्यचित्पदौ जघनं चैव कस्यचित्।
कांश्चिद्बिभेदपार्श्वेषु कालसृष्ट इवान्तकः॥ 10-8-84(64355)
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशोत्कटैः।
गजाश्वमथितैश्चान्यैर्मही कीर्णाऽभवत्प्रभो॥ 10-8-85(64356)
क्रोशतां किमिदं कोऽयं कः शब्दः किन्नु किं कृतम्।
पाञ्चालानां तथा द्रौणिरन्तकः समपद्यत॥ 10-8-86(64357)
अपेतशस्त्रसन्नाहान्सन्नद्वान्पाण्डुसृञ्जयान्।
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः॥ 10-8-87(64358)
ततस्तच्छस्त्रवित्रस्ता भयादभ्यपतन्नराः।
निद्रान्धा नष्टसंज्ञाश्च तत्रतत्र निपेतिरे॥ 10-8-88(64359)
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः।
विनदन्तो भृशं त्रस्ता निरैक्षन्त परस्परम्॥ 10-8-89(64360)
ततो रथं पुनर्द्रौणिरास्थितो भीमदर्शनः।
धनुष्पाणिः शरैरन्यान्प्रैषयद्वै यमक्षयम्॥ 10-8-90(64361)
पुनरुत्पततश्चापि दूरादपि नरोत्तमान्।
शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत्॥ 10-8-91(64362)
तथैव स्यन्दनाग्रेण प्रमथन्स व्यरोचत।
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः॥ 10-8-92(64363)
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा।
तेन चाकाशवर्णेन तथाचरत सोऽसिना॥ 10-8-93(64364)
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः।
व्यक्षोभयत राजेन्द्र महाह्दमिव द्विपः॥ 10-8-94(64365)
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः।
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः॥ 10-8-95(64366)
विस्वरं चुक्रुशुश्चान्ये बह्वबद्वं तथाऽवदन्।
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च॥ 10-8-96(64367)
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम्।
उत्पतन्तोऽपतञ्श्रान्ताः केचित्तत्राभ्रमंस्तदा।
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः॥ 10-8-97(64368)
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः।
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्॥ 10-8-98(64369)
तत्र केचिन्नरा भीता व्यलीयन्त महीतले।
तथैव तान्निपतितानपिंषन्गजवाजिनः॥ 10-8-99(64370)
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ।
हृष्टानि व्यनदन्नुच्चैर्मुदा युक्तानि सत्तम॥ 10-8-100(64371)
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः।
अपूरयद्दिशः सर्वा दिवं चातिमहान्स्वनः॥ 10-8-101(64372)
तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः।
मुक्ताः पर्यपतन्राजन्मृद्गन्तः शिबिरे जनम्॥ 10-8-102(64373)
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः।
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः॥ 10-8-103(64374)
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः।
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च॥ 10-8-104(64375)
गजो राजानतिक्रम्य निर्मनुष्या हया हयान्।
अताडयंस्तथाऽभञ्जंस्तथाऽमृद्गंश्च भारत॥ 10-8-105(64376)
ते भग्नाः प्रपतन्ति स्म मृद्रन्तश्च परस्परम्।
न्यपातयंस्तथा चान्यान्पातयित्वा तदाऽपिषन्॥ 10-8-106(64377)
विचेतसः सनिद्राश्च तमसा चावृता नराः।
जघ्रुः स्वानेव तत्राथ कालेनैव प्रचोदिताः॥ 10-8-107(64378)
त्यक्त्वाद्वाराणि च द्वास्थास्तथागुल्मानिगौल्मिकाः।
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः॥ 10-8-108(64379)
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्तस्तथा विभो।
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः॥ 10-8-109(64380)
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्।
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः॥ 10-8-110(64381)
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे।
तान्बुद्धा रणमध्येऽसौ द्रोणपुत्रो व्यपोथयत्॥ 10-8-111(64382)
तत्रापरे वध्यमाना मुहुर्महुरचेतसः।
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः॥ 10-8-112(64383)
तांस्तु निष्पतितांस्त्रस्ताञ्शिबिराज्जीवितैषिणः।
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः॥ 10-8-113(64384)
विसस्तयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्।
वेपमानान्क्षितौ भीतान्त्रैव कांश्चिदमुच्यताम्॥ 10-8-114(64385)
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः॥
कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः। 10-8-115(64386)
भूयश्चैव चिकीर्षन्तौ द्रौणपुत्रस्य तौ प्रियम्।
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्॥ 10-8-116(64387)
ततः प्रकाशे शिबिरे खङ्गेन पितृनन्दनः।
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्॥ 10-8-117(64388)
कांश्चिदापततो वीरानपरांश्चैव धावतः।
व्ययोजयत खङ्गेन प्राणैर्द्विजवरोत्तमः॥ 10-8-118(64389)
कांश्चिद्योधान्स खङ्गेन मध्ये सञ्छिद्य वीर्यवान्।
अशातयद्द्रोणपुत्रः संरब्धस्तिलकाण्डवत्॥ 10-8-119(64390)
निनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः।
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ॥ 10-8-120(64391)
मानुषाणां सहस्रेषु हतेषु पतितेषु च।
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन्॥ 10-8-121(64392)
सायुधान्साङ्गदान्बाहून्विचकर्त शिरांसि च।
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत॥ 10-8-122(64393)
पृष्ठच्छिन्नान्पार्श्वच्छिन्नाञ्शिरश्छिन्नांस्तथापरान्।
स महात्माकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान्॥ 10-8-123(64394)
मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः।
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः॥ 10-8-124(64395)
एवं हि बहुभिः शस्त्रैर्घ्नतोऽपि बलवत्तरान्।
तमसा रजनी घोरा बभौ दारुणदर्शना॥ 10-8-125(64396)
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः।
बहुना च गजाश्वेन भूतभूद्भीमदर्शना॥ 10-8-126(64397)
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे।
क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि।
भ्रातॄनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः॥ 10-8-127(64398)
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे।
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूग्कर्मभिः।
असान्निध्याद्वि पार्थानामिदं वः कदनं कृतम्॥ 10-8-128(64399)
न चासुरैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः।
शक्यो विजेतुं कौन्तेयो नेता यस्य जनार्दनः।
ब्रह्मण्यः मत्यवाग्दान्तः सर्वभूतानुकम्पकः॥ 10-8-129(64400)
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्।
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः॥ 10-8-130(64401)
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः।
इति लालप्यमानाः स्म शेरते बहवो जनाः॥ 10-8-131(64402)
स्तनतां च मनुष्याणामपरेषां च कूजताम्।
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान्॥ 10-8-132(64403)
शोणितव्यतिषिक्तायां वसुधायां च भूमिप।
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत॥ 10-8-133(64404)
स चेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः।
न्यपातयन्नरान्क्रुद्वः पशून्पशुपतिर्यथा॥ 10-8-134(64405)
अन्योन्यं सम्परिष्वज्य शयानाञ्जीवतोऽपरान्।
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत्॥ 10-8-135(64406)
ब्रह्ममाना हुताशेन वध्यमानाश्च तेन ते।
परस्परं तदा योधाननयद्यमसादनम्॥ 10-8-136(64407)
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्।
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्॥ 10-8-137(64408)
निशाचराणां सत्वानां रात्रिः सा हर्षवर्धिनी।
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्॥ 10-8-138(64409)
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः।
खादन्तो नरमांसानि पिबन्तः शोणितानि च॥ 10-8-139(64410)
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः।
जटिला भीमवक्त्राश्च पञ्चपादा महोदराः॥ 10-8-140(64411)
पञ्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः।
गजाननाश्च हस्वाश्च नीलवर्णा बिभीषणाः॥ 10-8-141(64412)
सपुत्रदाराः सुक्रूराः सुदुर्दर्शाः सुनिर्घृणाः।
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्॥ 10-8-142(64413)
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे।
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्॥ 10-8-143(64414)
मेदोमज्जास्थिरक्तानां मांसानां च भृशाशिताः।
परे मांसानि खादन्तः क्रव्यादा मांसजीविनः॥ 10-8-144(64415)
वसाश्चैवापरे पीत्वा पर्यधावन्विकुक्षिकाः।
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः॥ 10-8-145(64416)
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च।
रक्षसां घोररूपाणां महतां क्रुरकर्मणाम्॥ 10-8-146(64417)
मुदितानां वितृप्तानां तस्मिन्महति वैशसे।
समेतानि बहून्यासन्भूतानि च जनाधिप। 10-8-147(64418)
एवंविधा हि सा रात्रिः सोमकानां जनक्षये।
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा॥ 10-8-148(64419)
असंशयं हि कालस्य पर्यायो दुरतिक्रमः।
तादृशा निहता यत्र कृत्वाऽस्माकं जनक्षयम्॥ 10-8-149(64420)
धृतराष्ट्र उवाच। 10-8-150x(5277)
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः।
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः॥ 10-8-150(64421)
अथ कस्माद्वते क्षत्रे कर्मेदं कृतवानसौ।
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि॥ 10-8-151(64422)
सञ्जय उवाच। 10-8-152x(5278)
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन।
असान्निध्याद्धि पार्थानां केशवस्य च धीमतः।
सात्यकेश्चापि कर्मेदं द्रोमपुत्रेण साधितम्॥ 10-8-152(64423)
को हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः।
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो॥ 10-8-153(64424)
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्।
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः॥ 10-8-154(64425)
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः।
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो॥ 10-8-155(64426)
स निःशेषानरीन्कृत्वा विरराम निशाक्षये।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः॥ 10-8-156(64427)
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो।
दुर्गमां पदवीं गच्छन्पितुरासीद्गतज्वरः॥ 10-8-157(64428)
यथैव संसुप्तजने शिबिरे प्राविशन्निशि।
तथैव हत्वा निःशब्दो निश्चक्राम नरर्षभः॥ 10-8-158(64429)
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान्।
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो॥ 10-8-159(64430)
तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा।
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः॥ 10-8-160(64431)
प्रीत्या चोच्चैरुद्रक्रोशंस्तथैवास्फोटयंस्तलान्।
दिष्ट्यादिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः॥ 10-8-161(64432)
पर्यष्वजत्ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः।
इदं हर्षात्तु सुमहदाददे वाक्यमुत्तमम्॥ 10-8-162(64433)
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः।
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया॥ 10-8-163(64434)
इदानीं कृतकृत्याः स्म याम तत्रैव मा चिरम्।
यदि जीवति नो राजा तस्मै शंसामहे प्रियम्॥ ॥ 10-8-164(64435)
इति श्रीमन्महाभारते सौप्तिकपर्वणि अष्टमोऽध्यायः॥ 8 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-8-7 पाञ्चालैः पूर्वं निहतौ सन्तौ स्वपतां कच्चित् कोपात् स्वपतां पाञ्चालानां कर्म वधाख्यं ताभ्यां कच्चित्कृतमिति सम्बन्धः॥ 10-8-8 शिबिरद्वार्यतिष्ठतामिति झ.पाठः॥ 10-8-11 वां युवां प्राप्येति शेषः॥ 10-8-13 उद्देशज्ञः धृष्टद्युम्नस्थलज्ञः॥ 10-8-30 पादाष्ठीलैरिति झ.पाठः। तत्र पादाष्ठीलैः पादग्रन्थिभिः। पार्ष्णिघातैरित्यर्थः॥ 10-8-50 तैश्छिन्नगात्रैर्विस्फुरद्भिस्तेषां शरीरादुच्चलद्भी रक्तबिन्दुभिरित्यर्थः॥ 10-8-87 पाण्डुसृञ्जयान् पाण़्डवसम्बन्धिनः सृञ्जयान्। पाण्डोर्गोत्रापत्यानि सृञ्जयाश्च तान्वा॥ 10-8-105 अभञ्जन् गात्राण्यनमयन्। अमृद्रन् परस्परं मर्दितवन्तः॥ 10-8-106 अपिषन् अपिंषन्॥ 10-8-144 भृशाशिताः भृशं संन्तर्पिताः॥ 10-8-145 विकुक्षिकाः विपुलकुक्षयः॥ 10-8-8 अष्टमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|